01 August, 2011

Shiv Maanas Puja (शिव मानस पूजा)


रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं ।
नाना रत्न विभूषितम्‌ मृग मदामोदांकितम्‌ चंदनम ॥
जाती चम्पक बिल्वपत्र रचितं पुष्पं च धूपं तथा ।
दीपं देव दयानिधे पशुपते हृत्कल्पितम्‌ गृह्यताम्‌ ॥1॥

सौवर्णे नवरत्न खंडरचिते पात्र धृतं पायसं ।
भक्ष्मं पंचविधं पयोदधि युतं रम्भाफलं पानकम्‌ ॥
शाका नाम युतं जलं रुचिकरं कर्पूर खंडौज्ज्वलं ।
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥2॥

छत्रं चामर योर्युगं व्यजनकं चादर्शकं निमलं ।
वीणा भेरि मृदंग काहलकला गीतं च नृत्यं तथा ॥
साष्टांग प्रणतिः स्तुति-र्बहुविधा ह्येतत्समस्तं ममा ।
संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥3॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं ।
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ॥
संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो ।
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम्‌ ॥4॥

करचरण कृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वापराधम्‌ ।
विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करणाब्धे श्री महादेव शम्भो ॥5॥ 

No comments: